Sunday 21 May 2017

वेदाङ्ग-परिचयः

!!!---: वेदाङ्ग-परिचयः :---!!!
=====================
अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि, इति व्युत्पत्त्यनुसारेण अङ्गशब्दस्यार्थः उपकारको वर्तते । वेदार्थज्ञानाय येषां शास्त्राणाम् आवश्यकता भवति, तान्येव शास्त्राणि वेदाङ्गानि इति कथ्यन्ते । शिक्षा-कल्प-व्याकरण-निरुक्त-छन्द-ज्योतींषि भवन्ति षड्वेदाङ्गानि---
"शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ।।"
वैदिकवाङ्मये सर्वप्रथमवेदमन्ज्ञाणां यथायथोच्चारणम् आवश्यकम् अस्ति ।
अस्मिन् उच्चारणकर्मणि उपकारकं वेदाङ्गं शिक्षेति कथ्यते ।
वेदाध्ययनस्य मुख्यप्रयोजनं तु यज्ञयागादिकस्य कर्मकाण्डस्यानुष्ठानमस्ति । एतस्मिन्नर्थे प्रवृत्तस्य वेदाङ्गस्य नाम कल्पोSस्ति ।
शब्दानां प्रकृति-प्रत्ययादीनां समुचितं ज्ञानं व्याकरणं विना असम्भवमस्ति । अतः व्याकरणमपि वेदाङ्गमेवास्ति ।
निरुक्ताख्यस्य वेदाङ्गविशिष्टस्य विषयस्तु वैदिकानां पदानां व्युत्पत्तिप्रतिपादनम् अस्ति ।
वेदाः छन्दोबद्धाः सन्ति । अत एव तेषामुच्चारणाय छन्दोज्ञानम् आवश्यकमस्ति ।
ज्योतिषाख्यमन्तिमं वेदाङ्गम् यज्ञाणामनुष्ठाने समुचितकालं स्मारयति निर्दिशति वा । एतेषां षड्वेदाङ्गानां विभाजनं पाणिनीयशिक्षायां निम्नप्रकारेण कृतमस्ति---
"छन्दः पादौ तु वेदस्य हस्तौ कल्पोSथ उच्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ।।" ===============================
www.vaidiksanskritk.com
www.shishusanskritam.com
आर्ष-साहित्य और आर्य विचारधारा के लिए---
www.facebook.com/aarshdrishti
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari

No comments:

Post a Comment