Sunday 21 May 2017

रघुवंशमहाकाव्यस्यैकं सामान्यं परिचयम्

रघुवंशमहाकाव्यस्यैकं सामान्यं परिचयम्
============================
रघुवंशम् महाकविकालिदासेन विरचितमेकं महाकाव्यमस्ति। रघुवंशम् एकोनविंशति-सर्गात्मकम् एकं लालित्यपूर्णं महाकाव्यं अस्ति महाकवेः कालिदासस्य ।
अत्र रघुवंशस्य कथा निबद्धा अस्ति । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता अस्ति ।
तदुत्तरं रामवंश्यानां तत्तनृपाणां चरितानि उपन्यस्तानि । अन्तिमः सर्गः अग्निवर्णस्य राज्याभिषेकेण समं समाप्यते ।
कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम् अपि वर्णनं चिकीर्षति स्म , परम् असौ कालेन कवलीकृतः इति एकेषां मतम् । अन्ये पुनः कालिदासेन परतः अपि रघुवंशस्य सर्गाः लिखिताः; परन्तु ते न प्राप्यन्ते इत्याहुः ।
रघुवंशे येषां राज्ञां वर्णनानि सन्ति , तेषां रामायणवर्णितनृपैः सह भेदः आपतति , परन्तु वायुपुराण-वर्णितानुसारं रामवंशावल्या सह रघुवंशवर्णित - वंशावली भूयसा सामञ्जस्यं धारयति ।
एकोनविंशति (१९) सर्गेषु वर्णिता रघुवंशीयराज्ञां नामावलिः यथाक्रमम् अत्र उल्लिखिताः सन्ति । यथा-
दिलीपः,
रघुः,
अजः,
दशरथः,
रामः,
कुशः,
अतिथिः,
निषधः,
नलः,
नभः,
पुण्डरीकः,
क्षेमधन्वा,
देवानीकः,
अहीनगुः,
पारियात्रः,
शिलः,
उन्नाभः,
वज्रनाभः,
शंखणः,
व्युषिताश्वः,
विश्वसहः,
हिरण्यनाभः,
कौसल्यः,
ब्रह्मिष्ठः,
पुत्रः
पुष्यः,
धृवसन्धिः,
सुदर्शनः,
अग्निवर्णः च


एतेषु राजसु रामस्यैव वृत्तं सर्वाधिकसर्गेषु वर्णितमस्ति । ===============================
www.vaidiksanskritk.com
www.shishusanskritam.com
आर्ष-साहित्य और आर्य विचारधारा के लिए---
www.facebook.com/aarshdrishti
आयुर्वेद और हमारा जीवनः--
www.facebook.com/aayurvedjeevan
चाणक्य-नीति पढें---
www.facebook.com/chaanakyaneeti
वैदिक साहित्य की जानकारी प्राप्त करें---
www.facebook.com/vaidiksanskrit
www.facebook.com/shabdanu
लौकिक साहित्य पढें---
www.facebook.com/laukiksanskrit
सामान्य ज्ञान प्राप्त करें---
www.facebook.com/jnanodaya
संस्कृत सीखें---
www.facebook.com/shishusanskritam
संस्कृत निबन्ध पढें----
www.facebook.com/girvanvani
संस्कृत काव्य का रसास्वादन करें---
www.facebook.com/kavyanzali
संस्कृत सूक्ति पढें---
www.facebook.com/suktisudha
संस्कृत की कहानियाँ पढें---
www.facebook.com/kathamanzari

No comments:

Post a Comment